वांछित मन्त्र चुनें

स॒ह॒स्रा॒क्षेण॑ श॒तशा॑रदेन श॒तायु॑षा ह॒विषाहा॑र्षमेनम् । श॒तं यथे॒मं श॒रदो॒ नया॒तीन्द्रो॒ विश्व॑स्य दुरि॒तस्य॑ पा॒रम् ॥

अंग्रेज़ी लिप्यंतरण

sahasrākṣeṇa śataśāradena śatāyuṣā haviṣāhārṣam enam | śataṁ yathemaṁ śarado nayātīndro viśvasya duritasya pāram ||

पद पाठ

स॒ह॒स्र॒ऽअ॒क्षेण॑ । श॒तऽशा॑रदेन । श॒तऽआ॑युषा । ह॒विषा॑ । आ । अ॒हा॒र्ष॒म् । ए॒न॒म् । श॒तम् । यथा॑ । इ॒मम् । श॒रदः॑ । नया॑ति । इन्द्रः॑ । विश्व॑स्य । दुः॒ऽइ॒तस्य॑ । पा॒रम् ॥ १०.१६१.३

ऋग्वेद » मण्डल:10» सूक्त:161» मन्त्र:3 | अष्टक:8» अध्याय:8» वर्ग:19» मन्त्र:3 | मण्डल:10» अनुवाक:12» मन्त्र:3


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (शतशारदेन) सौ शरत्काल से (शतायुषा) सौ वर्ष आयु जिससे होती है, वैसे (हविषा) होम द्रव्य से (एनम्) इस रोगी को (आहार्षम्) ले आया हूँ (यथा) जिससे (शतं शरदः) इस रोगी को सौ शरत्काल तक (विश्वस्य-दुरितस्य) सर्व रोग दुःख के (पारम्) पार (इन्द्रः-नयाति) वैद्य ले जावे ॥३॥
भावार्थभाषाः - उतम वैद्य होम द्रव्य के द्वारा सौ वर्ष तक समस्त रोग दुःख से पार कर देता है, कर दिया करता है, कर दे ॥३॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (शतशारदेन) शतशरत्कालेन (शतायुषा) शतवर्षायुर्यस्माद् भवति तथाभूतेन (हविषा) होमद्रव्येण (एनम्-आहार्षम्) एतं रोगिण- मानयामि (यथा-इमं शतं शरदः) यथा हीमं रोगिणं शतं शरत्कालान् (विश्वस्य दुरितस्य) सर्वस्य रोगदुःखस्य (पारम्) पारम् (इन्द्रः-नयाति) सद्वैद्यो नयेत् “इन्द्रः-वैद्यः” [ऋ० ६।२७।२ दयानन्दः] ॥३॥